Friday, April 17, 2020

संस्कृत लौकिक साहित्य


प्रमुख-नाटकानि
प्रतिज्ञायोगन्धरायणम् :-
  • इयं सस्कृतसाहित्यस्य महत्वपूर्णा रचना अस्ति । रचनायाः विधा नाटकम् अस्ति । 
  • अस्य नाटकस्य रचनाकार: भास: अस्ति । 
  • नायक: वत्सराज उदयन: नायिका महासेनस्य पुत्री वासवदत्ता च अस्ति ।
  • चतुर्षु अंकेषु विभक्तम् इदं नाटकं प्रकरणम् रूपम् अस्ति ।
  • कथानक: स्वप्नवासवदत्तम् इत्यस्य नाटकस्य पूर्वंभागः अस्ति ।
  • कथानके नायक उदयनेन सह  नायिका वासवदत्तायाः गुप्तविवाह-वर्णनं, मंत्री योगन्धरायणस्य वीरताया: वर्णनम् च अस्ति ।

विक्रमोर्वशीयम् :-
  • इयं सस्कृतसाहित्यस्य महत्वपूर्णा रचना अस्ति । रचनायाः विधा नाटकम् अस्ति । 
  • अस्य नाटकस्य रचनाकार: कविकुलगुरु: कालिदासः अस्ति ।
  • इदं कालिदासस्य द्वितीयं नाटकम् अस्ति ।
  • नायक: पुरुरवा नायिका अप्सरा उर्वशी च अस्ति ।
  • पञ्चसु अंकेषु विभक्तम् इदं नाटकं त्रोटक-रूपम् अस्ति ।
  • कथानके पुरुरवा-उर्वश्यो: पौराणिककथायाः वर्णनम् अस्ति ‌।
  • नाटकस्य कथा मत्स्यपुराणे मिलति ।

मुद्राराक्षसम् :-
  • इयं सस्कृतसाहित्यस्य सर्वप्रसिद्धा अतिमहत्वपूर्णा रचना अस्ति । रचनायाः विधा नाटकम् अस्ति । 
  • अस्य नाटकस्य रचनाकार: विशाखदत्त: अस्ति ।
  • सप्तसु अंकेषु विभक्तम् इदं नाटकं कूटनीतिसमाविष्टं राजनीतिप्रधानं च अस्ति ।
  • स्त्रीपात्राणां विदुषकस्य च पूर्णतया अभाव: अस्ति ।
  • नायक: ब्राह्मण: चाणक्य: अस्ति । नायिका नास्ति । चाणक्यस्य बुद्धि: एव नायिकारूपेण मन्यते ।
  • मुद्रया गृहीत: राक्षस: मुद्राराक्षस: तम् अधिकृत्य कृतं नाटकम् इति मुद्राराक्षसम् नाटकस्य नामकरणम् अस्ति ।
  • देवीचन्द्रगुप्तम् इत्यस्य नाटकस्य रचनाकारः विशाखदत्त: एव अस्ति ।
  • इदं नाटकम् ओजस्विताया:, पौरुषताया:, तेजस्विताया: च ओत-प्रोतम् अस्ति ।


प्रमुख-गद्यकाव्यानि

वासवदत्ता :-
  • इयं सस्कृतसाहित्यस्य महत्वपूर्णा रचना  अस्ति । रचनायाः विधा कथा अस्ति । 
  • अयं साहित्यिक गद्यस्य आद्य ग्रंथः अस्ति ।
  • कथाया: रचनाकार: सुबन्धु: अस्ति । 
  • कथा  कविकल्पिता  लोककथाश्रिता च अस्ति ।
  • नायक: राजा चिन्तामणे: पुत्र: राजकुमार कन्दर्पकेतु:  नायिका राजा  श्रृंगारशेखरस्य पुत्री वासवदत्ता  च अस्ति ।
  • कथानके नायक कन्दर्पकेतुना सह  नायिका वासवदत्तायाः परिणय-वर्णनम् अस्ति ।

कादम्बरी :-
  • इयं सस्कृतसाहित्यस्य महत्वपूर्णा रचना अस्ति । रचनायाः विधा कथा अस्ति । 
  • कथाया: रचनाकार: महाकवि: गद्यकार: बाणभट्ट: अस्ति ।
  • कथा  कविकल्पिता जन्मत्रयाधारिता  च अस्ति ।
  • नायक: चन्द्रापीड: नायिका कादम्बरी उपनायक: वैशम्पायन: (पुण्डरीक:)  उपनायिका महाश्वेता च अस्ति ।
  • कथानके नायक-नायिका अनयोः उपनायक-उपनायिका अनयोः प्रेमकथाया: वर्णनम् अस्ति ।
  • कथाया: उपजीव्य ग्रंथ गुणाढ्य कृत बृहत्कथा अस्ति ।
  • कथा त्रिभागेषु विभक्ता अस्ति  - कथामुखम्, पूर्वार्द्धभाग, उत्तरार्द्धभाग ।
  • शुकनासोपदेशः कथाया: एक: महत्वपूर्ण: खण्ड: अस्ति ।

हर्षचरितम् :- 
  • इयं सस्कृतसाहित्यस्य महत्वपूर्णा रचना अस्ति । रचनायाः विधा आख्यायिका अस्ति । 
  • आख्यायिकाया: रचनाकार: महाकवि: गद्यकार: बाणभट्ट: अस्ति ।
  • नायक हिन्दू सम्राट् हर्षवर्धन: अस्ति ।
  • अष्ट उच्छ्वासेषु  विभक्तम् इयम् आख्यायिका हिन्दू सम्राट् हर्षवर्धनस्य सम्पुर्ण जीवन चरितस्य विषये वर्णयति ।
  • बाणोच्छिष्टं जगत्सर्वम्, बाणः तु पंचानन: सूक्ति: बाणेन सम्बद्धः अस्ति ।

शिवराजविजय: :-
  • इयं सस्कृतसाहित्यस्य महत्वपूर्णा रचना अस्ति । रचनायाः विधा आख्यायिका अस्ति । 
  • आख्यायिकाया: रचनाकार: गद्यकार: पंडित अम्बिकादत्त व्यास: अस्ति ।
  • अम्बिकादत्त व्यास: शतावधानीक:, घटिकाशतकम् उपाधिभिः विभूषितः ।ऋ
  • अयं संस्कृतसाहित्यस्य प्रथम: ऐतिहासिक उपन्यास: अस्ति ।
  • नायक: मराठा केसरी शिवाजी महाराज: अस्ति ।
  • द्वादश निःश्वासेषु  विभक्तम् इयम् आख्यायिका । 
  • अत्र कथाद्वयं समानरूपेण चलति । प्रथमकथाया: नायक: वीरशिवाजी अस्ति । द्वितीयकथायाः नायक: रघुवीरसिंह: अस्ति ।
  • गद्यं कवीनां निकषं वदन्ति सूक्ति: अम्बिकादत्तव्यासेन सम्बद्धः अस्ति ।

No comments:

Post a Comment