वेद
ऋग्वेद:
1. अयम् प्राचीनतम: वेद: ।
2. ऋग्वेदे प्राचीन भारतीय दर्शन-संस्कृति-मानवताया: समग्र चित्रणम् अस्ति ।
3. विभाजनम् - मण्डलेषु (10 मण्डल, 85 अनुवाक्, 1025 सूक्त, 10552 मंत्र)
4. ऋग्वेदे मंत्रदृष्टा ऋषय: - विश्वामित्र, गृत्समद, अत्रि, भारद्वाज, वशिष्ठ इत्यादय: सन्ति।
5. ऋग्वेदे पञ्चशाखा प्राप्यन्ते - शाकल, वाष्कल, आश्वालायन, शांखायन मांडूकायन।
यजुर्वेद:
1. येन यज्ञादि कार्यक्रम: संपन्न: भवति स: यजु:।
2. यजुर्वेदे मुख्यतः दशपौर्णमासयज्ञ, पितृयज्ञ अग्निहोत्रयज्ञ, अग्निष्टोमयज्ञ, राजसूययज्ञ इत्यादि यज्ञानां वर्णनम् अस्ति।
3. विभाजनम् - शुक्लयजुर्वेद:, कृष्णयजुर्वेदश्च ।
4. यजुर्वेदे चतस्रशाखा प्राप्यते - तैतरीय, मैत्रायणी, काठक, कपिष्ठल ।
सामवेद:
1. सामगानस्य परम्परा अतिप्राचीना ।
2. सामगानं चतुर्विधम् - ग्राम, अरण्य, ऊह, ऊह्य ।
3. विभाजनम् - आर्चिकेषु (पूर्वार्चिक, उत्तरार्चिक) ।
4. यजुर्वेदे सहस्रशाखा प्राप्यते, मुख्यतः राणायनीय, कौथुमीय, जैमिनीय शाखा: वर्तन्ते।
अथर्ववेद:
1. महर्षि अथर्वणा दृष्टत्वात् अथर्ववेद: ।
1. महर्षि अथर्वणा दृष्टत्वात् अथर्ववेद: ।
2. अथर्ववेदे अनिष्टनिवारणं, पशुरक्षणं, हलप्रवहणं, बीजवपनं, स्वास्थ्यवर्धनं इत्येषां प्रार्थना मंत्रा: सन्ति।
3. विभाजनम् - काण्डेषु (20 काण्ड, 730 सूक्त, 5987 मंत्र) ।
4. यजुर्वेदे नवशाखा वर्तन्ते, मुख्यतः शाखाद्वयम् उपलभ्यते : शौनक-पिपलाद शाखा ।
वेदांग
शिक्षा - येन वेदमंत्राणां शुद्धोच्चारणं संपाद्यते । वेदे स्वरज्ञानं स्वराणां प्राधान्यं शिक्षाया: आधीनं भवति । शिक्षा वेदस्य घ्राणम् ।
कल्प: - यज्ञविधीनां समर्थनं प्रतिपादनम् । षोडश संस्काराणां, पंचमहायज्ञानां गृहप्रवेशस्य गृहनिर्माणस्य धर्मरीत्या-नीत्या: चतुर्वर्गाणां कर्तव्यानां वर्णनम् अत्र अस्ति । कल्प: वेदस्य हस्तौ ।
व्याकरणम् - भाषा लोकव्यवहारस्य साधिका । भाषाया: शद्धोच्चारणाय व्याकरणम् आवश्यकम् । व्याकरणं वेदस्य मुखम् ।
निरुक्तम् - शब्दानां पदानां अर्थावबोधनाय निरुक्तम् आवश्यकम् । निरुक्तम् वेदस्य श्रोत्रम् ।
ज्योतिषम् - इदं कालविज्ञापकं शास्त्रम् । मुहूर्त ज्ञात्वा क्रियमाणा यज्ञक्रिया विशेष फलदायी भवति । ज्योतिषं वेदस्य चक्षु: ।
छन्द: - वेदमंत्राणां सम्यक् उच्चारणाय सम्यग् गानाय छन्दसां महती आवश्यकता वर्तते । छन्द: वेदस्य पादौ ।
ब्राह्मणग्रंथाः
ब्राह्मणग्रंथेषु यज्ञक्रियायाः विस्तृत वर्णनम् उपलभ्यते। एते यज्ञानां रहस्यमय अर्थस्य प्रतिपादनं कुर्वन्ति। वेदानाम् अनुगुणं ब्राह्मणग्रंथाः निम्न सन्ति :-
ऋग्वेद - ऐतरेय ब्राह्मण
यजुर्वेद - तैतिरीय ब्राह्मण
सामवेद - जैमिनीय ब्राह्मण
अथर्ववेद - गोपथ ब्राह्मण
आरण्यकग्रंथा:
यस्य साहित्यस्य निर्माणं नगरात् ग्रामात् वा बहिः अरण्ये भवति तत्साहित्यं आरण्यकम्। आरण्यकेषु आध्यात्मिक विवेचनं कृतम् अस्ति। वेदानाम् अनुगुणं आरण्यकग्रंथाः निम्न सन्ति :-
ऋग्वेद - ऐतरेय आरण्यकम्
यजुर्वेद - तैतिरीय आरण्यकम्
सामवेद - तवलकार आरण्यकम्
अथर्ववेद - कोऽपि न
उपनिषद्ग्रंथा:
वेदानाम् अन्तिमः भागः वेदान्तः एव उपनिषद् कथ्यते। या विद्या गुरो: समीपे उपविश्य प्राप्यते तत् उपनिषद् इति उच्यते। उपनिषत्सु जीव-ब्रह्म-जगत् सम्बन्धी रहस्यं अपि प्रतिपादितम् अस्ति। उपनिषदां संख्या 108 अस्ति परञ्च 10 एव उपलभ्यते। एते निम्न सन्ति :-
ईशोपनिषद्
केनोपनिषद्
कठोपनिषद्
मुण्डकोपनिषद्
माण्डुक्योपनिषद्
ऐतरेयोपनिषद्
तैत्तिरीयोपनिषद्
छान्दोग्योपनिषद्
प्रश्नोपनिषद्
बृहदारण्यकोपनिषद्
कठोपनिषद्
मुण्डकोपनिषद्
माण्डुक्योपनिषद्
ऐतरेयोपनिषद्
तैत्तिरीयोपनिषद्
छान्दोग्योपनिषद्
प्रश्नोपनिषद्
बृहदारण्यकोपनिषद्
वेदानां रचनाकालः
प्राचीन विद्वान्सः वेदान् अपौरुषेय इति मन्यन्ते l कतिपय पाश्चात्य विद्वान्सः यथाबुद्धिः वेदानां रचनाकालं निर्धारितवन्तः l तान् अनुसृत्य भारतीय विद्वान्सः अपि प्रयतन्ते स्म।
मैक्समूलर - 1200 ई० पूर्व (बौद्ध साहित्य के अनुसार)
शंकरबालकृष्ण दीक्षित - 5500 ई० पूर्व (शतपथ ब्राह्मण के अनुसार)
बाल गंगाधर तिलक - 6000 ई० पूर्व (ज्योतिष के अनुसार)
जैकोबी - 4500 से 2500 ई० पूर्व (ज्योतिष के अनुसार)
विन्टरनित्ज - 2500 ई० पूर्व (मितानी शिलालेख के अनुसार)
No comments:
Post a Comment