छन्द (भाग ~ 1)
वंशस्थ छन्द:
लक्षणम् - जतौ तु वंशस्थमुदीरितं जरौ ।।
प्रतिचरणे वर्णा: - 12 वर्णा:
गणानां क्रम: - जगण (।ऽ।), तगण (ऽऽ।), जगण (।ऽ।), रगण (ऽ।ऽ)
उदाहरणम् -
भवन्ति नम्रास्तरव: फलोद्गमै: ।नवाम्बुभिर् दूरविलम्बिनो घना: ।
अनुद्धता: सत्पुरुषा: समृद्धिभिः ।
स्वभाव एवेष परोपकारिणाम् ।।
प्रथम पंक्ति में गणचिह्न देखें ~
भवन्ति नम्रास्तरव: फलोद्गमै:
। ऽ । ऽ ऽ ।। ऽ । ऽ । ऽ
वसन्ततिलका छन्द:
लक्षणम् - उक्ता वसन्ततिलका तभजा जगौ ग: ।।
प्रतिचरणे वर्णा: - 14 वर्णा:
गणानां क्रम: - तगण (ऽऽ।), भगण (ऽ।।), जगण (।ऽ।), जगण (।ऽ।), 2 गुरु (ऽऽ)
उदाहरणम् -
प्रारभ्यते न खलु विघ्नभयेन नीचै: ।प्रारभ्यविघ्नविहता विरमन्ति मध्या: ।
विघ्नै: पुन: पुनरपि प्रतिहन्यमाना ।
प्रारब्धमुत्तमजना: न परित्यजन्ति ।।
प्रथम पंक्ति में गणचिह्न देखें ~
प्रारभ्यते न खलु विघ्नभयेन नीचै:
ऽ ऽ । ऽ । । । ऽ । ।ऽ । ऽ ऽ
इन्द्रवज्रा छन्द:
लक्षणम् - स्यादिन्द्रवज्रा यदि तौ जगौ ग:
प्रतिचरणे वर्णा: - 11 वर्णा:
गणानां क्रम: - तगण (ऽऽ।), तगण (ऽऽ।), जगण (।ऽ।), 2 गुरु (ऽऽ)
उदाहरणम् -
अर्थो हि कन्या परकीय एव ।तामद्यसम्प्रेष्य परिग्रहीतु: ।
जातो ममायं विशदः प्रकामं ।
प्रत्यर्पितन्यास इवान्तरात्मा ।।
प्रथम पंक्ति में गणचिह्न देखें ~
अर्थो हि कन्या परकीय एव
ऽ ऽ । ऽ ऽ ।। ऽ । ऽऽ
उपेन्द्रवज्रा छन्द:
लक्षणम् - उपेन्द्रवज्रा जतजास्ततो गौ
प्रतिचरणे वर्णा: - 11 वर्णा:
गणानां क्रम: - जगण (।ऽ।), तगण (ऽऽ।), जगण (।ऽ।), 2 गुरु (ऽऽ)
उदाहरणम् -
त्वमेव माता च पिता त्वमेव ।त्वमेव बन्धुश्च च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देव देव: ।।
प्रथम पंक्ति में गणचिह्न देखें ~
त्वमेव माता च पिता त्वमेव
। ऽ । ऽ ऽ । । ऽ ।ऽ ऽ
उपजाति / जाति छन्द:
लक्षणम् - स्यादिन्द्रवज्रा यदि तौ जगौ ग: ।
उपेन्द्रवज्रा जतजास्ततो गौ ।
इत्थं किलान्यास्वपि मिश्रितासु ।
वदन्ति जातिष्विदमेव नाम ।।
प्रतिचरणे वर्णा: - 11 वर्णा:
गणानां क्रम: - इन्द्रवज्रा छन्द + उपेन्द्रवज्रा छन्द = उपजाति छन्द
उदाहरणम् -
येषां न विद्या न तपो न दानं ।ज्ञानं न शीलं न गुणो न धर्मः ।
ऐते मर्त्यलोके भुवि भारभूता: ।
मनुष्यरूपेण मृगाश्चरन्ति ।।
प्रथम व चतुर्थ पंक्ति में गणचिह्न देखें ~
येषां न विद्या न तपो न दानं
ऽ ऽ । ऽ ऽ । । ऽ । ऽ ऽ (इन्द्रवज्रा)
मनुष्यरूपेण मृगाश्चरन्ति
। ऽ । ऽऽ । । ऽ । ऽ ऽ (उपेन्द्रवज्रा)
भुजङ्गप्रयातम् छन्द:
लक्षणम् - चतुर्भियकारैः भुजङ्गप्रयातम् ।।
प्रतिचरणे वर्णा: - 12 वर्णा:
गणानां क्रम: - यगण (।ऽऽ), यगण (।ऽऽ), यगण (।ऽऽ), यगण (।ऽऽ) अर्थात् 4 यगण
उदाहरणम् -
महेशः सुरेशः परेशः परात्मा ।दिनेशो निशेशो युगेशोऽसि देव ।
त्वमेवासि देवेश देवाधिदेव ।
प्रभो पाहि मां लोकनाथ: सदैव ।।
प्रथम पंक्ति में गणचिह्न देखें ~
महेशः सुरेशः परेशः परात्मा
। ऽ ऽ ।ऽ ऽ ।ऽ ऽ । ऽ ऽ
No comments:
Post a Comment